श्री विश्वनाथनगरी स्तोत्र | Shree Vishvanath Nagari Stotra |

 

श्री विश्वनाथनगरी स्तोत्र 

श्री विश्वनाथनगरी स्तोत्र



यत्र देहपतनेऽपि देहिनां मुक्तिरेव भवतीति निश्चितम् | 
पूर्वपुण्यनिचयेन लभ्यते विश्वनाथनगरी गरीयसी || १ || 

स्वर्गतः सुखकारी दिवौकसां शैलराजतनयातिवल्लभा | 
ढुण्ढिभैरवविदारिताशुभा विश्वनाथनगरी गरीयसी || २ || 

राजतेऽत्र मणिकर्णिकामला सा सदाशिवसुखप्रदायिनी | 
या शिवेन रचिता निजायुधैर्विश्वनाथनगरी गरीयसी || ३ || 

सर्वदा अमरवृन्दवन्दिता दिग्गजेन्द्रमुखवारिताशिवा | 
कालभैरवकृतैकशासना विश्वनाथनगरी गरीयसी || ४ || 

यत्र मुक्तिरखिलैस्तु जन्तुभिर्लभ्यते मरणमात्रतः शुभा | 
साऽखिलामरगणैरभीप्सिता विश्वनाथनगरी गरीयसी || ५ || 

उरगं तुरगं खागं मृगं वा करिणं केसरिणं खरं नरं वा | 
सकृदाप्लुत एव देवनद्याः लहरी किं न हरं चरीकरीति || ६ || 

|| इति श्रीमच्छङ्कराचार्यविरचितं श्रीविश्वनाथनगरीस्तोत्रं सम्पूर्णम् ||  
  
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post