धनदा लक्ष्मी स्तोत्र | Dhanda Lakshmi Stotra

 

धनदा लक्ष्मी स्तोत्र 

धनदा लक्ष्मी स्तोत्र 


धनद उवाच 
देवी देवमुपागम्य नीलकण्ठं मम प्रियम् |
कृपया पार्वती प्राह शंकरं करुणाकरम् || १ ||

देव्युवाच
ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् |
दरिद्र दलनोपायमंजसैव धनप्रदम् || २ ||

शिव उवाच
पुज्यन् पार्वतीवाक्यमिदमाह महेश्वरः |
उचितं जगदम्बासि तव भूतानुकम्पया || ३ ||

स सीतं सानुजं रामं सांजनेयं सहानुगम् |
प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् || ४ ||

धनदं श्रद्धधनांनां सद्यः सुलभकारकम् |
योगक्षेमकरं सत्यं सत्यमेव वचो मम || ५ ||

पठन्तः पाठयन्तोऽपि ब्रह्मणैरास्तिकोत्तमैः |
धनलाभो भवेदाशु नाशमेति दरिद्रता || ६ ||

भूभवांशभवां भूत्यै भक्तिकल्पलतां शुभाम् |
प्रार्थयेत्तां यथाकामं कामधेनुस्वरुपिणीम् || ७ ||

धनदे धनदे देवि दानशीले दायकरे |
त्वं प्रसीद महेशानि यदर्थं प्रार्थयाम्यहम् || ८ ||

धराऽमरप्रिये पुण्ये धन्ये धनदपूजिते |
सुधनं धार्मिके देहि यजमानाय सत्वरम् || ९ ||

रम्ये रुद्रप्रिये रुपे रमारुपे रतिप्रिये |
शिखीसखमनोमूर्ते प्रसीद प्रणते मयि || १० ||

आरक्त चरणाम्भोजे सिद्धि सर्वार्थदायिके |
दिव्याम्बरधरे दिव्ये दिव्यमाल्यानुशोभिते || ११ ||

समस्तगुणसम्पन्ने सर्वलक्षणलक्षिते |
शरच्चन्द्रमुखे नीले नील नीरज लोचने || १२ ||

चंचरीक चमू चारु श्रीहार कुटीलालके |
मत्ते भगवती मातः कलकण्ठरवामृत || १३ ||

हासाऽवलोकनैर्दिव्यैर्भक्तचिन्तापहारिके |
रुप लावण्य तारुण्य कारुण्य गुणभाजने || १४ ||

क्वणत्कंकणमंजीरे लसल्लीलाकराम्बजे |
रुद्रप्रकाशिते तत्वे धर्माधारे धरालये || १५ ||

प्रयच्छ यजमानाय धनं धर्मेकसाधनम् |
मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके || १६ ||

कृपया करुणागारे प्रार्थितं कुरु मे शुभे |
वसुधे वसुधारुपे वसु वासव वन्दिते || १७ ||

धनदे यममानाय वरदे वरदा भव |
ब्रह्मण्यैर्ब्राह्मणैः पूज्ये पार्वतीशिवशंकरे || १८ ||

स्तोत्रं दरिद्रताव्याधिशमनं सुधनप्रदम् |
श्रीकरे शंकरे श्रीदे प्रसीद मयि किंकरे || १९ ||

पार्वतीशप्रसादेन सुरशे किंकरेरितम् |
श्रद्धया ये पठिष्यन्ति पाठयिष्यन्ति भक्तितः || २० ||

सहस्त्रमयुतं लक्षं धमलाभो भवेद् ध्रुवम्
धनदाय नमस्तुभ्यं निधिपद्माधिपाय च |
भवन्तु त्वत्प्रसादान्मे धन धान्यादिसम्पदः || २१ ||

|| अस्तु ||             
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post