सर्प सूक्तम् | Sarp Sukt |

 

सर्प सूक्त

सर्प सूक्तम्


ब्रह्मलोके च ये सर्पाः शेषनाग पुरोगमाः |
नमोऽस्तु तेभ्यः सुप्रीता प्रसन्नाः सन्तु मे सदा ||

विष्णुलोके च ये सर्पाः वासुकिप्रमुखश्चा ये |
नमोऽस्तु तेभ्यः सुप्रीता प्रसन्नाः सन्तु मे सदा ||

रुद्रलोके च ये सर्पाः तक्षकप्रमुखास्तथा |
नमोऽस्तु तेभ्यः सुप्रीता प्रसन्नाः सन्तु मे सदा ||

खांडवस्य तथा दाहे स्वर्गं ये च समाश्रिताः |
नमोऽस्तु तेभ्यः सुप्रीता प्रसन्नाः सन्तु मे सदा ||

सर्पसत्रे च ये सर्पाः आस्तिकेन च रक्षिताः |
नमोऽस्तु तेभ्यः सुप्रीता प्रसन्नाः सन्तु मे सदा ||

प्रलये चैव ये सर्पाः कर्कोटप्रमुखाश्च ये |
नमोऽस्तु तेभ्यः सुप्रीता प्रसन्नाः सन्तु मे सदा ||

धर्मलोके च ये सर्पाः वैतरण्यां समाश्रिताः |
नमोऽस्तु तेभ्यः सुप्रीता प्रसन्नाः सन्तु मे सदा ||

ये सर्पाः पार्वतीयेषु दरिसंधिषु संस्थिताः |
नमोऽस्तु तेभ्यः सुप्रीता प्रसन्नाः सन्तु मे सदा ||

ग्रामे वा यदि वारण्ये ये सर्पाः प्रचरन्ति हि |
नमोऽस्तु तेभ्यः सुप्रीता प्रसन्नाः सन्तु मे सदा ||

पृथिव्यां चैव ये सर्पा ये सर्पा बिलसंस्थिताः |
नमोऽस्तु तेभ्यः सुप्रीता प्रसन्नाः सन्तु मे सदा ||

रसातले च ये सर्पा अनंताद्या महाबलाः |
नमोऽस्तु तेभ्यः सुप्रीता प्रसन्नाः सन्तु मे सदा ||


|| अस्तु ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post