श्री हनुमत् अष्टोत्तर शतनाम स्तोत्रम् | Shree Hanumatt Ashtottar Shatnaam Stotra |

 

श्री हनुमत् अष्टोत्तर शतनाम स्तोत्रम्

श्री हनुमत् अष्टोत्तर शतनाम स्तोत्रम्


|| ध्यान ||
वन्दे विद्युज्ज्वलनविलसद्ब्रह्मसूत्रैकनिष्ठं
कर्णद्वन्द्वे कनकरचिते कुण्डले धारयन्तम् |
सत्कौपीनं कपिचरवृतं कामरुपं कपीन्द्रं
पुत्रं वायोरिनसुतसुखदं वज्रदेहं वरेण्यम् ||

|| स्तोत्र ||
आञ्जनेयो महावीरः हनूमान्मारुतात्मजः |
तत्त्वज्ञानप्रदायकः सीतामुद्राप्रदायकः || १ ||

अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः |
सर्वबन्धविमोक्त्ता च रक्षोविध्वंसकारकः || २ ||

परविद्यापरिहारः परशौर्यविनाशनः |
परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः || ३ ||

सर्वग्रहविनाशी च भिमसेनसहायकृत् |
सर्वदुःखहरः सर्वलोकचारी मनोजवः || ४ ||

पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरुपवान् |
सर्वतन्त्रस्वरुपी च सर्वयन्त्रात्मकश्च वै || ५ ||

कपीश्वरो महाकायः सर्वरोगहरः प्रभुः |
बलसिद्धिकरः सर्वविद्यासम्पत्प्रदायकः || ६ ||

कपिसेनानायकश्च भविष्यच्चतुराननः |
कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान् || ७ ||

सञ्चलद्बालसन्नद्धलम्बमानशिखोज्ज्वलः |
गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः || ८ ||

कारागृहविमोक्त्ता च शृङ्खलाबन्धमोचकः |
सागरोत्तारकः प्राज्ञः रामदूतः प्रतापवान् || ९ ||

वानरः केसरीसुतः सीताशोकनिवारणः |
अञ्जनागर्भसम्भूतो बालार्कसदृशाननः || १० ||

विभीषणप्रियकरो दशग्रीवकुलान्तकः |
लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः || ११ ||

चिरजीवी रामभक्तो दैत्यकार्यविघातकः |
अक्षहन्ता काञ्चनाभः पञ्चवक्त्रो महातपाः || १२ ||

लङ्किनीभञ्जनः श्रीमान् सिंहिकाप्राणभञ्जनः |
गन्धमादनशैलस्थः लङ्कापुरविदाहकः || १३ ||

सुग्रीवसचिवो धीरः शूरो दैत्यकुलान्तकः |
सुरार्चितो महातेजा रामचूडामणिप्रदः || १४ ||

कामरुपी पिङ्गलाक्षो वार्धिमैनाकपूजितः |
कवलीकृतमार्तण्डमण्डलो विजितेन्द्रियः || १५ ||   

रामसुग्रीवसन्धाता महारावणमर्दनः |
स्फटिकाभो वागधीशो नवव्याकृतिपण्डितः || १६ ||

चतुर्बाहुर्दीनबन्धुर्महात्मा भक्तवत्सलः |
सञ्जीवननगाहर्ता शुचिर्वाग्मी दृढव्रतः || १७ ||

कालनेमिप्रमथनो हरिमर्कटमर्कटः |
दान्तः शान्तः प्रसन्नात्मा शतकण्ठमदापहृत् || १८ ||

योगी रामकथालोलः सीतान्वेषणपण्डितः |
वज्रदंष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः || १९ ||

इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः |
पार्थध्वजाग्रसंवासी शरपञ्चरभेदकः || २० ||

दशबाहुर्लोकपूज्यो जाम्बवत्प्रीतिवर्धनः |
सीतासमेतश्रीरामपादसेवाधुरन्धरः || २१ ||

|| इति श्री हनुमदष्टोत्तरशतनाम स्तोत्रं सम्पूर्णम् ||       

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post