ads

चतुःश्लोकी भागवतम् | Chatuh Shloki Bhagavat |

 

चतुःश्लोकी भागवतम्

चतुःश्लोकी भागवत

|| श्री भगवान उवाच ||


अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम् |
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् || 1 ||

ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि |
ताद्विद्यादात्मनो मायां यथाऽभासो यथा तमः || 2 ||

यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु |
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् || 3 ||

एतावदेव जिज्ञास्य तत्त्वजिज्ञासुनाऽत्मनः |
अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा || 4 ||

|| चतुःश्लोकी भागवतं सम्पूर्णम् ||
चतुःश्लोकी भागवतम् | Chatuh Shloki Bhagavat | चतुःश्लोकी भागवतम् | Chatuh Shloki Bhagavat | Reviewed by karmkandbyanandpathak on 2:38 AM Rating: 5

No comments:

Powered by Blogger.