शांति स्तोत्रम् | Shanti Stotra |

 

शांति स्तोत्रम्

शांति स्तोत्रम्


|| शान्तिपाठ || 
ॐ नश्यन्तु प्रेत कूष्माण्डा नश्यन्तु दूषका नराः |
साधकानां शिवाः सन्तु आम्नायपरिपालकाः || १ ||

जयन्ति मातरः सर्वाः जयन्ति योगिनीगणाः |
जयन्ति सिद्धडाकिन्यो जयन्ति गुरुपन्क्तयः || २ ||

जयन्ति साधवः सर्वे विशुद्धाः कौलिकाश्च ये |
समयाचार सम्पन्ना जयन्ति पूजका नराः || ३ ||

यजन्तु अणिमाः सिद्धा नन्दन्तु कुलदेवताः |
ऐन्द्राद्याः देवताः सपान्तु तृप्यन्तु वास्तुदेवताः || ४ ||

चन्द्रसूर्यादयो देवास्तुष्यन्तु मम भक्तितः |
नक्षत्राणि ग्रहा योगाः करणा राशयश्च ये || ५ ||

सर्वे ते सुखिनो यान्तु सर्पा नद्यश्च पक्षिणः |
पशवस्तुरगाश्चैव पर्वताः कन्दरा गुहाः || ६ ||

ऋषयो ब्राह्मणाः सर्वे शान्तिं कुर्वन्तु मे सदा |
शुभ निवेदिताः सन्तु मित्रास्तिष्ठन्तु पूजकाः || ७ ||

वेदाचार विमर्दनष्ट हृदया भ्रष्टाश्च ये साधकाः
ये ये पापधिया विदूषणकरा मन्निन्दकाः पूजकाः |
दृष्ट्वा च क्रमपूर्वमन्दहृदया ये कौलिका दूषकाः
ते ते यान्तु विनाशमत्र समये श्री भैरवस्याज्ञया || ८ ||

साधकानां च ये हिंस्त्रा सदेवाम्नायदूषकाः |
डाकिनीनां मुखे यान्तु मम निंन्दाकराश्च ये ||
द्वेष्टारः साधकानां च ते नश्यन्तु शिवाज्ञया || ९ ||

|| इति यामलोक्तं शांतिस्तोत्रं सम्पूर्णम् ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post