श्री लक्ष्मी हृदय स्तोत्र | Lakshmi Hriday Stotra |

 

लक्ष्मी हृदय स्तोत्र



श्री लक्ष्मी हृदय स्तोत्र





सर्वप्रथम ३ बार आचमन करे |
फिर संकल्प करे |

ॐ श्री लक्ष्मी नारायण प्रसादेन ममाभीष्ट कामना सिध्यर्थं श्री लक्ष्मीनारायणह्रदयजपाख्य वा पाठ्कर्म अहं करिष्ये |




फिर न्यास करे
ऋष्यादिन्यास
ॐ भार्गवऋषये नमः शिरसि |
अनुष्टुभादि नानछन्देभ्यो नमो मुखे |
आद्यादि श्री महालक्ष्म्यै देवतायै नमो ह्रदये |
श्रीं बीजाय नमः गुह्ये |
ह्रीं शक्तये नमः पादयोः |
ऐं कीलकाय नमः सर्वांगे |

|| करन्यास: ||
ॐ श्रीं अङ्गुष्ठाभ्यां नमः |
ॐ ह्रीं तर्जनीभ्यां नमः |
ॐ ऐं मध्यमाभ्यां नमः |
ॐ श्रीं अनामिकाभ्यां नमः |
ॐ ह्रीं कनिष्ठिकाभ्यां नमः |
ॐ ऐं करतलकरपृष्ठाभ्यां नमः |

|| हृदयादिन्यासः ||
ॐ श्रीं हृदयाय नमः |
ॐ ह्रीं शिरसे स्वाहा |
ॐ ऐं शिखायै वषट् |
ॐ श्रीं कवचाय हुम् |
ॐ नेत्रत्रयाय वौषट् |
ॐ ऐं अस्त्राय फट् |

|| दिग्बन्धः ||
ॐ श्रीं ह्रीं ऐं इति दिग्बन्धः |

|| ध्यान ||
हस्तद्वयेन कमले धारयन्तीं स्वलीलाया |
हरनूपुरसंयुक्तां लक्ष्मीं देवीं विचिन्तये ||

इति ध्यात्वा मानोसोपचारैः सम्पूज्य
शंख चक्र गदाहस्ते शुभ्रवर्णे सुवासिनि |
मम देहि वरं लक्ष्मि, सर्वसिद्धिप्रदायिनि ||

|| इति सम्प्रार्थ्य ||
ॐ श्रीं ह्रीं ऐं महालक्ष्म्यै कमल धारिण्यै सिंहवाहिन्यै स्वाहा |
इति मन्त्रं जप्त्वा पुनः पूर्ववद् हृदयादि षडङ्गन्यासं कृत्वा स्तोत्रं पठेत् ||

|| स्तोत्र ||
वन्दे लक्ष्मीं परशिवमयीं शुद्धजाम्बूनदाभां |
तेजोरुपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् |
बीजापूरं कनककलशं हेमपद्मं दधानाम् |
आद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् || १ ||

श्रीमत्सौभाग्य जननीं स्तौमि लक्ष्मीं सनातनीम् |
सर्वकाम फलावाप्ति साधनैक सुखावहाम् || २ ||

स्मरामि नित्यं देवेशि, त्वया प्रेरितमानसः |
त्वदाज्ञां शिरसा धृत्वा भजामि परमेश्वरीम् || ३ ||

समस्त सम्पत् सुखदा महाश्रियं समस्त सौभाग्यकरीं महाश्रियम् |
समस्त कल्याणकारीं महाश्रियं भजाम्यहं ज्ञानकारीं महाश्रियम् || ४ ||

विज्ञानसम्पत्सुखदां सनातनीं विचित्र वाग्भूतिकरीं मनोहराम् |
अनन्त सम्मोद सुखप्रदायिनीं नमाम्यहं भूतिकरीं हरिप्रियाम् || ५ ||

समस्त भूतान्तर संस्थिता त्वं समस्त भोक्त्रीश्वरि विश्वरुपे |
तन्नास्ति यत्त्वद्व्यरिक्तवस्तु त्वत्पादपद्मं प्रणमाम्यहं श्रीः || ६ ||

दारिद्र्य दुःखौघ तमोपहन्त्रि त्वत्पादपद्मं मयि सन्निधत्स्व |
दीनार्तिविच्छेदन हेतूभूतैः कृपाकटाक्षैरभिषिञ्च मां श्रीः || ७ ||

अम्ब पसीद करुणा सुधयाऽऽर्द्रदृष्ट्या
मां त्वत्कृपाद्रविणगेहमिमं कुरुष्व |
आलोकय प्रणतहृद्गतशोकहन्त्रि |
त्वत्पादपद्मयुगलं प्रणमाम्यहं श्रीः || ८ ||

शान्त्यै नमोऽस्तु शरणागतरक्षणाय
कान्त्यै नमोऽस्तु कमनीयगुणाश्रयायै |
क्षान्त्यै नमोऽस्तु दुरिताक्षयकारणायै
धात्र्यै नमोऽस्तु धनधान्यसमृद्धिदायै || ९ ||

शक्त्यै नमोऽस्तु शशिशेखरसंस्तुतायै
रत्यै नमोऽस्तु रजनीकरसोदरायै |
भक्त्यै नमोऽस्तु भवसागरतारिकायै
मत्यै नमोऽस्तु मधुसूदनवल्लभायै || १० ||

लक्ष्म्यै नमोऽस्तु शुभलक्षणलक्षितायै
सिद्ध्यै नमोऽस्तु शिवसिद्धसुपूजितायै |
धृत्यै नमोऽस्त्वमितदुर्गतिभञ्जनायै
गत्यै नमोऽस्तु वरसद्गतिदायिकायै || ११ ||

दैव्यै नमोऽस्तु दिवि देवगणार्चितायै
भूत्यै नमोऽस्तु भुवनार्तिविनाशानायै |
दात्र्यै नमोऽस्तु धरणीधरवल्लभायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै || १२ ||

सुतीव्र दारिद्र्य विदुःखहन्त्र्यै नमोऽस्तु ते सर्वभयापहन्त्र्यै |
श्रीविष्णु वक्षःस्थल संस्थितायै नमो नमः सर्वविभूतिदायै || १३ ||

जयतु जयतु लक्ष्मीर्लक्षणालङ्कृताङ्गी
जयतु जयतु पद्मा पद्मसद्माभिवन्द्या |
जयतु जयतु विद्या विष्णुवामाङ्कसंस्था
जयतु जयतु सम्यक् सर्वसम्पत्करी श्रीः || १४ ||

जयतु जयतु देवी देवसङ्घाभिपूज्या
जयतु जयतु भद्रा भार्गवी भाग्यरुपा |
जयतु जयतु नित्या निर्मलज्ञानवेद्या
जयतु जयतु सत्वा सर्वभूतान्तरस्था || १५ ||

जयतु जयतु रम्या रत्नगर्भान्तरस्था
जयतु जयतु शुद्धा शुद्धजाम्बूनदाभा |
जयतु जयतु कान्ता कान्तिमद्धासिताङ्गी
जयतु जयतु कान्ता शीघ्रमागच्छ सौम्ये || १६ ||

यस्याः कलाद्याः कमलोद्धवाद्याः रुद्राश्च शक्रप्रमुखाश्च देवाः |
जीवन्ति सर्वा अपि शक्तयस्ताः प्रभुत्वमाप्ता ः परमायुषस्ते || १७ ||

लिलेख निटिले विधिर्मम लिपिं विसृज्यान्तरं
त्वया विलिखितव्यमेतदिति तत्फलप्राप्तये |
तदन्तरफले स्फुटं कमलवासिनि श्रीरिमां
समर्पय समुद्रिकां समलभाग्यसंसूचिकाम् || १८ ||

कलया ये यथा देवी जीवन्ति सचराऽचराः |
तथा सम्पत्करी लक्ष्मीः सर्वदा सम्प्रसीद मे || १९ ||

यथा विष्णुर्ध्रुवो नित्यं स्वकलां सन्निवेशयत् |
तथैव स्वकलां लक्ष्मि, मयि सम्यक् समर्पय || २० ||

सर्वसौख्यप्रदे देवि, भक्तानामभयप्रदे |
अचलां कुरु यत्नेन कलां मयि निवेशिताम् || २१ ||

मुदास्तां मद्भाले परमपदलक्ष्मीः स्फुटकला
सदा वैकुण्ठश्रीर्निवसतु कला मे नयनयोः |
वसेत् सत्ये लोके मम वचसि लक्ष्मीर्वरकला
श्रियः श्वेतद्वीपे निवसतु कला मेऽस्तु करयोः || २२ ||

तावन्नित्यं ममाऽङ्गषु क्षीराब्धौ श्रीकला वसेत् |
सूर्याचन्द्रमसौ यावद्यावल्लक्ष्मीपतिः श्रिया || २३ ||

सर्वमङ्गलसम्पूर्णा सर्वैश्वर्य समन्विता |
आद्यादिश्रीमहालक्ष्मीस्त्वत्कला मयि तिष्ठतु || २४ ||

अज्ञानतिमिरं हन्तुं शुद्धज्ञानप्रकाशिका |
सर्वैश्वर्यप्रदा मेऽस्तु त्वत्कला मयि संस्थिता || २५ ||

अलक्ष्मीं हरतु क्षिप्रं तमः सूर्यप्रभा यथा |
वितनोतु मम श्रेयस्त्वत्कला मयि संस्थिता || २६ ||

ऐश्वर्य मंगलोत्पत्तिस्त्वत्कलायां निधीयते |
अहं तस्मात्कृतार्थोऽस्मि पात्रमध्यस्थिते त्वयि || २७ ||

भवदावेश भग्योऽहं भाग्यवानस्मि भार्गवि |
त्वत्प्रसादात्पवित्रोऽहं लोकमातर्नमोऽस्तु || २८ ||

पुनासि मां त्वं कलयैव यस्मादतः समागच्छ ममाऽग्रतस्त्वम् |
परं पदं श्रीर्भव सुप्रसन्ना मय्यच्युतेन प्रविशादिलक्ष्मीः || २९ ||

श्रीवैकुण्ठस्थिते लक्ष्मीः समागच्छ ममाऽग्रतः |
नारायणेन सह मां कृपादृष्ट्या विलोकय || ३० ||

सत्यलोकस्थिते लक्ष्मीस्त्वं ममाऽऽगच्छ सन्निधिम् |
वासुदेवेन सहिता प्रसीद वरदा भव || ३१ ||

श्वेतद्वीपस्थिते लक्ष्मीः शीघ्रमागच्छ सुव्रते |
विष्णुना सहिते देवि, जगन्मातः पसीद मे || ३२ ||

क्षीराम्बुधिस्थिते लक्ष्मीः समागच्छ स माधवे |
त्वत्कृपादृष्टिसुधया सततं मां विलोकयः || ३३ ||

रत्नगर्भस्थिते लक्ष्मि, परिपूर्णहिरण्मयि |
समागच्छ समागच्छ स्थित्वाऽऽशु परतो मम || ३४ ||

स्थिरा भव महालक्ष्मीर्निश्चला भव निर्मले |
प्रसन्न कमले देवि, प्रसन्नहृदया भव || ३५ ||

श्रीधरे, श्रीमहाभूते, त्वदन्तःस्थं महानिधिम् |
शीघ्रमुद्धृत्वा पुरतः प्रदर्शय समर्पय || ३६ ||

वसुन्धरे, श्रीवसुधे, वसुदोग्ध्रि, कृपां मयि |
त्वत्कुक्षिगतसर्वस्वं शीघ्रं मे सम्प्रदर्शय || ३७ ||

विष्णुप्रिये, रत्नगर्भे, समस्तफलदे, शिव |
त्वद्गर्भगतहेमादीन् सम्प्रदर्शय दर्शय || ३८ ||

रसातलगते लक्ष्मीः शीघ्रमागच्छ मे पुरः |
न जाने परमं रुपं मातर्मे सम्प्रदर्शय || ३९ ||

आविर्भव मनोवेगाच्छीघ्रमागच्छ मे पुरः |
मां वत्स, भैरिहेत्युक्त्वा कामं गौरिव रक्ष माम् || ४० ||

देवि, शीघ्रं समागच्छ धरणीगर्भसंस्थिते |
मातस्त्वद्भृत्यभृत्योऽहं मृगये त्वां कुतूहलात् || ४१ ||

उत्तिष्ठ जागृहि त्वं मे समुत्तिष्ठ सुजागृहि |
अक्ष्यान् हेमकलशान् सुवर्णेन सुपूरितान् || ४२ ||

निक्षेपानमे समाकृष्य समुद्धृत्य ममाऽग्रतः |
समुन्नतानना भूत्वा समाधेहि धरान्तरात् || ४३ ||

मत्सन्निधिं समागच्छ मदाहितकृपारसात् |
प्रसीद श्रेयसां दोग्ध्रि, लक्ष्मीर्मे नयनाग्रतः || ४४ ||

अत्रोपविश लक्ष्मीस्त्वं स्थिरा भव हिरण्मयि |
सुस्थिरा भव सम्प्रीत्या प्रसीद वरदा भव || ४५ ||

आनीय त्वं तथा देवि, निधीन्मे सम्प्रदर्शय |
अद्य क्षणेन सहसा दत्वा संरक्ष मां सदा || ४६ ||

मयि तिष्ठ तथा नित्यं यथेन्द्रादिषु तिष्ठसि |
अभयं कुरु मे देवि, महालक्ष्मीर्नमोऽस्तु || ४७ ||

समागच्छ महालक्ष्मीः शुद्धजाम्बूनदप्रभे |
प्रसीद पुरतः स्थित्वा प्रणतं मां विलोकय || ४८ ||

लक्ष्मीर्भुवं गता भासि यत्र यत्र हिरण्ययी |
तत्र तत्र स्थिता त्वं मे तव रुपं प्रदर्शय || ४९ ||

क्रीडसे बहुधा भूमौ परिपूर्णा हिरण्ययी |
मम मूर्धनि ते हस्तमविलम्बितमर्पय || ५० ||

फलभाग्योदयेलक्ष्मीः समस्त पुरवासिनी |
प्रसीद मे महालक्ष्मीः परिपूर्णमनोरथे || ५१ ||

अयोध्यादिषु सर्वेषु नगतेषु समास्थिते |
वैभवैर्विधैर्युक्ता समागच्छ बलान्विते || ५२ ||

समागच्छ समागच्छ ममाऽग्रे भव सुस्थिरा |
करुणारस, निष्यन्द, नेत्रद्वय, विलासिनि || ५३ ||

संविधत्स्व महालक्ष्मीस्त्वत्पाणिं मम मस्तको |
करुणासुधया मां त्वमभिषिञ्च स्थिरीकुरु || ५४ ||

सर्वराजगृहे लक्ष्मौः समागच्छ मुदाम्विते |
स्थित्वाऽऽशु पुरतो मेऽद्य प्रसादेनाऽभयं || ५५ ||

सादरं मस्तके हस्तं मम त्वं कृपयाऽर्पय |
सर्वराजगृहे लक्ष्मीस्त्वत्कला मयि तिष्ठतु || ५६ ||

आद्यादि श्रीमहालक्ष्मीर्विष्णुवामाङ्कसंस्थिते |
प्रत्यक्षं कुरु से रूपं रक्ष मां शरणागतम् || ५७ ||

प्रसीद मे महालक्ष्मीः सुप्रसीद महाशिवे |
अचला भव सम्प्रीत्या सुस्थिरा भव मुद्गृहे || ५८ ||

यावत्तिष्ठन्ति वेदाश्च यावत्त्वन्नाम तिष्ठति |
यावद्विष्णुश्च यावत्त्वं तावत्कुरु कृपां मयि || ५९ ||

चान्द्री कला यथा शुक्ले वर्धते सा दिने दिने |
तथा दया ते मय्येव वर्धतामभिवर्धताम् || ६० ||

यथा वैकुण्ठनगरे यथा वै क्षीरसागरे |
यथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह || ६१ ||

योगिनां हृदये नित्यं यथा तिष्ठसि विष्णुना |
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सहा || ६२ ||

नारायणस्य हृदये भवती यथाऽस्ते
नारायणोऽपि तव हृत्कमले यथाऽस्ते |
नारायणस्त्वमपि नित्यमुभौ तथैव
तौ तिष्ठतां हृदि ममाऽपि दयावति श्रीः || ६३ ||

विज्ञानवृद्धिं हृदये कुरु श्रीः सौभाग्यवृद्धिं कुरु मे गृहे श्रीः |
दयासु वृद्धिं कुरुतां मयि श्रीः सुवर्णवृद्धि कुरु मे गृहे श्रीः || ६४ ||

न मां त्यजेथा श्रितकल्पवल्लि सद्धक्तचिन्तामणि कामधेनो |
विश्वस्य मातर्भव सुप्रसन्ना गृहे कलतेषु च पुत्रवर्गे || ६५ ||

आद्यादिमाके देवा त्वमजाण्डबीजं त्वमेव साकारनिराकृतिस्त्वम् |
त्वया धृताश्चाऽब्जवाण्डसङ्घाश्चित्रं चरित्रं तव देवि, विष्णोः || ६६ ||

ब्रह्मरुद्रादयो देवा वेदाश्चापि न शक्नुयुः |
महिमानं तव स्तोतुं मन्दोऽहं शक्नुयां कथम् || ६७ ||

अम्ब, त्वद्वत्सवाक्यानि सूक्ताऽसूक्तानि यानि च |
तानि स्वीकुरु सर्वज्ञे दयालुत्वेन सदरम् || ६८ ||

भवतीं शरणं गत्वा कृतार्थाः स्युः पुरातनाः |
इति सञ्चिन्त्य मनसा त्वामहं शरणं व्रजे || ६९ ||

अनन्ता नित्यसुखिनस्त्वद्धक्तास्त्वत्परायणाः |
इति वेदप्रमाणाद्धि देवि, त्वां शरणं व्रजे || ७० ||

तव प्रतिज्ञा मद्भक्ता न नश्यन्त्विति वै क्वचित् |
इति सञ्चित्य सञ्चित्य प्राणान्सधारयाम्यहम् || ७१ ||

त्वदधीनस्त्वहं मातस्त्वत्कृपा मयि विद्यते |
यावत् सम्पूर्णकामः स्यां तावद्देहि दयानिधे || ७२ ||

क्षणमात्रं न स्सक्नोति जीवितुं त्वत्कृपां विना |
न जीवन्तीह जलजा जलं त्यक्त्वा जलग्रहाः || ७३ ||

यथा हि पुत्रवात्सल्याज्जननी प्रस्नुतस्तनी |
वत्सं त्वरितमागत्य संप्रीणयति वत्सला || ७४ ||

यदि स्यां तव पुत्रोऽहं माता त्वं मामकी |
दयापयोधरस्तन्य सुधाभिरभिषिञ्च माम् || ७५ ||

मृग्यो न गुणलेशोऽपि मयि दोषैकमन्दिरे |
पांसूनां वृष्टिविन्दूनां दोषाणां च न मे मितिः || ७६ ||

पापनामहमेवाग्र्यो दयालूनां त्वमग्रणीः |
दयनीयो मदन्योऽस्ति त्व कोऽत्र जगत्त्रये || ७७ ||

विधिनाऽहं न सृष्टश्चेन्न स्यात्तव दयालुता |
आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः || ७८ ||

कृपा मदग्रजा किं ते अहं किं वा तदग्रजः |
विचार्य देहि मे वित्तं तव देवि, दयानिधे || ७९ ||

माता पिता त्वं गुरु, सद्गतिः श्रीः त्वमेव संजीवनहेतुभूता |
अन्यन्न मन्ये जगदेकनाथे, त्वमेव सर्वं मम देवि, सत्ये || ८० ||

आद्यादिलक्ष्मी सुप्रसन्ना विशुद्ध, विज्ञान, सुखैकदोग्ध्री |
अज्ञानहन्त्री त्रिगुणातिरिक्ता प्रज्ञाननेत्रा भव सुप्रसन्ना || ८१ ||

अशेष, वाग्जाड्य, मलापहन्त्री नवं नवं स्पष्टसुवाक्प्रदायिनी |
ममेह जिह्वाग्र, सुरङ्ग, नर्तकी भव प्रसन्ना वदने च मे श्रीः || ८२ ||

समस्तसम्पत्सु विराजमाना समस्ततेजश्च विभासमाना |
विष्णुप्रिये, त्वं भव दीप्यमाना वाग्देवता मे वदने प्रसन्ना || ८३ ||

सर्वार्थदा सर्वजगत्प्रसूतिः सर्वेश्वरी सर्वभयापहन्त्री |
सर्वोन्नता त्वं सुमुखी भव श्रीर्हिरण्मयी मे नयने प्रसन्ना || ८४ ||

सर्वप्रदर्शे सकलार्थदे त्वं प्रभासु लावण्यदयाप्रदोग्ध्री |
सुवर्णदे त्वं सुमुखा भव श्रीर्हिरण्मयी मे नयने प्रसन्ना || ८५ ||

समस्त विघ्नौघ, विनाश, कारिणी समस्तभक्तोद्धरणे विचक्षणा |
अनन्त, सौभाग्य, सुखप्रदायिनी हिरण्मयी मे नयने प्रसन्ना || ८६ ||

देवि, प्रसीद दयनीयतमाय, मह्मं देवाधिनाथ, भवदेव, गणाभिवन्द्ये |
मातस्तथैव भव सन्निहिता दृशोर्मे प्रीत्या समं मम मुखे भव सुप्रसन्ना || ८७ ||

मां वत्स भैरभयदानकरोऽर्पितस्ते
मौलौ ममेति मयि दीनदयानुकम्पे |
मातः, समर्पय मुदा करुणाकटाक्षं
माङ्गल्यबीजमिह नः सृज जन्म मातः || ८८ ||

कटाक्ष इह कामधुक् तव मनस्तु चिन्तामणिः
करः सुरतरुः सदा नवनिधिस्त्वमेवेन्दिरे |
भवेत्तव दयारसो मम रसायनं चाऽन्वहं
मुखं तव कलानिधिर्विविधवाञ्छतार्थप्रदम् || ८९ ||

यथा रसस्पर्शनतोऽयसोऽपि सुवर्णता स्यात् कमले तथा ते |
कटाक्षसंस्पर्शनतो जनानाममङ्गलानामपि मंगलत्वम् || ९० ||

देहाति नास्तीति वचःप्रवेशाद् भीतो रमे, त्वां शरणं प्रपद्ये |
अतः सदाऽस्मिन्नभयप्रदा त्वं सहैव पत्या मयि सन्निधेहि || ९१ ||

कल्पद्रुमेण मणिना सहिता सुरम्या
श्रीस्ते कला मयि रसने रसायनने |
आस्तां यतो मम च दृक्शिरपाणिपाद
स्पृष्टाः सुवर्णवपुषः स्थिरजङ्गमाः स्युः || ९२ ||

आद्यादि, विष्णोः स्थिरधर्मपत्नी त्वमेव पत्या मयि सन्निधेहि |
आद्यादि, लक्ष्मि, त्वदनुग्रहेण पदे पदे मे निधिसर्षनं स्यात् || ९३ ||

आद्यादि, लक्ष्मीहृदयं पठेद् यः स राज्यलक्ष्मीरचलां तनोति |
महादरिद्रऽपि भवेद्भनाढ्यस्तदन्वये श्रीः स्थिरतां प्रयाति || ९४ ||

यस्य स्मरणमात्रेण तुष्टा स्याद्विष्णुवल्लभा |
तस्याऽभीष्टं ददात्याशु तं पालयति पुत्रवत् || ९५ ||

इदं रहस्यं हृदयं सर्वकामफलप्रदम् |
जपः पञ्चसहस्रं तु पुरश्चरणमुच्यते || ९६ ||

त्रिकालमेककालं वा नरो भक्तिसमन्वितः |
यः पठेच्छृणुयाद्वाऽपि याति परमां श्रियम् || ९७ ||

महालक्ष्मीं समुद्दिश्य निशि भार्गववासरे |
इहं श्रीहृदयं जप्त्वा पञ्चवारं धनी भवेत् || ९८ ||

अनेन हृदयोनाऽन्नं गर्भिण्या अभिमन्त्रिम् |
ददाति तत्कुले पुत्रो जायते श्रीपतिः स्वयम् || ९९ ||

नरेण वाऽथवा नार्या लक्ष्मीहृदयमन्त्रिते |
जले पीते च तद्वंशे मन्दभाग्यो न जायते || १०० ||

य आश्विने मासि च शुक्लपक्षे रमोत्सवे सन्निहितैकभक्त्या |
पठेत्तथैकोत्तरवारवृद्ध्या लभेत् स सौवर्णमयीं सुवृष्टिम् || १०१ ||

य एकभक्तोऽन्वहमेकवर्षे विशुद्धधीः सप्ततिवारजापि |
स मन्दभाग्योऽपि रमाकटाक्षाद् भवेद् सहस्राक्ष, शताधिक, श्रीः || १०२ ||

श्रीशांध्निभक्तिं हरिदासदास्यं प्रपन्नमन्त्रार्थ, दृढैकनिष्ठाम् |
गुरोः स्मृतिं निर्मलबोधबुद्धिं प्रदेहि मातः परमं पदं श्रीः || १०३ ||

पृथ्वीपतित्वं पुरुषोत्तमत्वं विभूतिवासं विविधार्थसिद्धिम् |
सम्पूर्णकीर्ति बहुवर्षभोगं प्रदेहि मे देवि, पुनः पुनस्त्वम् || १०४ ||

वादार्थसिद्धिं बहुलोकवश्यं वयःस्थिरत्वं ललनासु भोगम् |
पौत्रदिलब्धिं सकलार्थसिद्धिं प्रदेहि मे भार्गवि, जन्मजन्मनि || १०५ ||

सुवर्णवृद्धिं कुरु मे गृहे श्रीः विभूतिवृद्धिं कुरु मे गृहे श्रीः |
विज्ञानवृद्धिं कुरु मे गृहे श्रीः सौभाग्यवृद्धिं कुरु मे गृहे श्रीः || १०६ ||

ध्यायेल्लक्ष्मीं प्रहसितमुखीं कोटिबालार्कभासां
विद्युद्वर्णाम्बरवरधरां भूषणाढ्यां सुशोभाम् |
बीजापूरं सरसिजयुगं बिभ्रतीं स्वर्णपात्रं
भर्त्रा युक्तां मुहुरभयदां मह्ममप्यच्युतश्रीः || १०७ ||

गुह्माऽतिगुह्यगोप्त्री त्वं गृहाणाऽस्मत्कृतं जपम् |
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरा || १०८ ||

|| इति श्री लक्ष्मीहृदयस्तोत्रं स्म्पूर्णम् ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post