श्री राम सहस्त्र नाम स्तोत्रम् | Shree Ram Sahastra Naam Stotra |

 

श्री राम सहस्त्र नाम स्तोत्रम्

श्री राम सहस्त्र नाम स्तोत्रम्

|| ध्यानम् ||
ध्यायेजादानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् |
वामाङ्गारुढसीतामुखकमलमिलल्लोचनं नीरदाभं
नानालङ्कारदीप्तं दधतमुरुजटामण्डलं ||

नीलाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासिनं
मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि|
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्तीं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ||

|| स्तोत्रम् ||
राजीवलोचनः श्रीमान् श्रीरामो रघुपुङ्गवः |
रामभद्रः सदाचारो राजेन्द्रो जानकीपतिः || १ ||

अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः |
जनार्दनो जितामित्रः परार्थैकप्रयोजनः || २ ||

विश्वामित्रप्रियो दान्तश्शत्रुजिच्छत्रुतापनः |
सर्वज्ञः सर्वदेवादिः शरण्यो वालिमर्दनः || ३ ||

ज्ञानभाव्योऽपरिच्छेद्यो वाग्मी सत्यव्रतः शुचिः |
ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी प्रतापवान् || ४ ||

द्युतिमानत्मवान् वीरो जितक्रोधोरिमर्दनः |
विश्वरूपो विशालाक्षः प्रभु परिवृढ दृढः || ५ ||

ईशः खड्गधरः श्रीमान् कौसलेयोऽनसूयकः |
विपुलांसो महोरस्कः परमेष्ठि परायणः || ६ ||

सत्यव्रतः सत्यसन्धो गुरुः परमधार्मिकः |
लोकज्ञो लोकवन्द्यश्च लोकात्मा लोककृत्परः || ७ ||

अनादिर्भगवान् सेव्यो जितमायो रघूद्वहः |
रामो दयाकरो दक्षः सर्वज्ञः सर्वपावनः || ८ ||

ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयोन हरिः |
सुन्दरः पीतावासाश्च सूत्रकारः पुरातनः || ९ ||

सौम्यो महर्षिः कोदण्डी सर्वज्ञ सर्वकोविदः |
कविः सुग्रीववरदः सर्वपुण्या धिकप्रदः || १० ||

भव्यो जितारिषड्वर्गो महोदरोघनाशनः धनाशनः |
सुकीर्तिरादिपुरुषः कान्तः पुण्यकृतातागमः || ११ ||

अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः |
अमितभाषी निवृत्तात्मा स्मृतिमान् विर्यवान् प्रभुः || १२ ||

धीरो दान्तो घनश्यामः सर्वायुधविशारदः |
अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः || १३ ||

सर्वतीर्थमयश्शूरः सर्वयज्ञफलप्रदः |
यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः || १४ ||

वर्णाश्रमकरो वर्णी शत्रुजित् पुरुषोत्तमः |
विभीषणप्रतिष्ठाता परमात्मा परात्परः || १५ ||

प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरञ्जयः |
अनन्तदृष्टिरानन्दो धनुर्वेदो धनुर्धरः || १६ ||

गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः |
अभिवन्द्यो महाकायो विश्वकर्मा विशारदः || १७ ||

विनितात्मा वीतरागस्तपस्वीशो जनेश्वरः |
कल्याणप्रकृतिः कल्पः सर्वेशः सर्वकामदः || १८ ||

अक्षयः पुरुषः साक्षी केशवः पुरुषोत्तमः |
लोकाध्यक्षो महामायो विभीषणवरप्रदः || १९ ||

आनन्दोविग्रहो ज्योतिर्हनुमत्प्रभुरव्ययः |
भ्राजिष्णुः सहनो भोक्त्ता सत्यवादी बहुश्रुतः || २० ||

सुखदः कारणं कर्ता भवबन्धविमोचनः |
देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः || २१ ||

संसारोत्तारको रामः सर्वदुःखविमोक्षकृत् |
विद्वत्तमो विश्वकर्ता विश्वहर्ता च विश्वकृत् || २२ ||

नित्यो नियतकल्याणः सीताशोकविनाशकृत् |
काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापदः || २३ ||

मारीचमथनो रामो विराधवधपण्डितः |
दुस्स्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः || २४ ||

महाधनुर्महाकायो भीमो भीमपराक्रमः |
तत्त्वस्वरुपी तत्त्वज्ञस्तत्त्ववादी सुविक्रमः || २५ ||

भूतात्मा भूतकृत् स्वामी कालज्ञानी महापटुः |
अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा || २६ ||

स्वभावभद्रश्शत्रुघ्नः केशवः स्थाणुरिश्वरः |
भूतादिः शम्भुरादित्यः स्थविष्ठश्शाश्वतो ध्रुवः || २७ ||

कवची कुण्डली चक्री खड़्गी भक्त्तजनप्रियः |
अमृत्युर्जन्मरहितः सर्वजित् सर्वगोचरः || २८ ||

अनुत्तमोऽप्रमेयात्मा सर्वादिर्गुणसागरः |
समः समात्मा समगो जटामुकुटमण्डितः || २९ ||

अजेयः सर्वभूतात्मा विष्वक्सेनो महातपाः |
लोकाध्यक्षो महाबाहुरमृतो वेदवित्तमः || ३० ||

सहिष्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः |
अतीन्द्र ऊर्जितः प्रांशुरुपेन्द्रो वामनो बली || ३१ ||

धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शङ्करः |
हंसो मरीचिर्गोविन्दो रत्नगर्भो महामतिः || ३२ ||

व्यासो वाचस्पतिः सर्वदर्पितासुरमर्दनः |
जानकीवल्लभः पूज्यः प्रकटः प्रीतिवर्धनः || ३३ ||

सम्भवोऽतीन्द्रियो वेद्योऽनिर्देशों जाम्बवत्प्रभुः |
मदनो मथनो व्यापी विश्वरुपो निरञ्जनः || ३४ ||

नारायणोऽग्रणीः साधुर्जटायुप्रीतिवर्धनः |
नैकरुपो जगन्नाथ सुरकार्यहितः स्वभूः || ३५ ||

जितक्रोधो जितारातिः प्लवगाधिपराज्यदः |
वसुदः सुभुजो नैकमायो भव्यप्रमोदनः || ३६ ||

चण्डांशुः सिद्धिदः कल्पः शरणागतवत्सलः |
अगदो रोगहर्ता च मन्त्रज्ञो मन्त्रभावनः || ३७ ||

सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरुपधृक् |
वसिष्ठो ग्रामणिः श्रीमाननुकूलः प्रियंवदः || ३८ ||

अतुलः सात्त्विको धीरः सराशनविशारदः |
ज्येष्ठः सर्वगुणोपेतः शक्त्तिमांस्तातकान्तकः || ३९ ||

वैकुण्ठः प्राणिनां प्राणः कमठः कमलापतिः |
गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः || ४० ||

कुम्भकर्णप्रभेत्ता च गोपिगोपालसंवृत्तः |
मायावी व्यापको व्यापी रैणकेयबलापहः || ४१ ||

पिनाकमथनो वन्द्यः समर्थों गरुडध्वजः |
लोकत्रयाश्रेयो लोकचरितो भरताग्रजः || ४२ ||

श्रीधरः सद्गतिर्लोकसाक्षी नारायणो बुधः |
मनोवेगी मनोरुपी पूर्णः पुरुषपुङ्गवः || ४३ ||

यदुश्रेष्ठो यदुपतिर्भूतावासः सुविक्रमः |
तेजोधरो धराधारश्चतुर्मूर्तिर्महानिधिः || ४४ ||

चाणूरमर्दनो दिव्यश्शान्तो भरतवन्दितः |
शब्दातिगो गभीरात्मा कोमलाङ्गः प्रजागतः || ४५ ||

लोकगर्भश्शेषशायी क्षीराब्धिनिलयोऽमलः |
आत्मयोनिरदीनात्मा सहस्त्राक्षः सहस्त्रपात् || ४६ ||

अमृतांशुर्महागर्भो निवृत्तविषयस्पृहः |
त्रिकालज्ञो मुनिस्साक्षी विहायसगतिः कृती || ४७ ||

पर्जन्यः कुमुदो भूतावासः कमललोचनः |
श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः || ४८ ||

लोकाभिरामो लोकारिमर्दनः सेवकप्रियः |
सनातनतमो मेघश्यामलो राक्षसान्तकृत् || ४९ ||

दिव्यायुधधरश्श्रीमानप्रमेयो जितेन्द्रियः |
भूदेववन्द्यो जनकाप्रियकृत् प्रपितामहः || ५० || 

उत्तमः सात्त्विकः सत्यः सत्यसन्धस्त्रिविक्रमः |
सुव्रतः सुलभः सूक्ष्मः सुघोषः सुखदः सुधीः || ५१ ||

दामोदरोऽच्युतश्शाङ्गीं वामनो मधुराधिपः |
देवकीनन्दनः शौरिं शूरः कैटभमर्दनः || ५२ ||

सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः |
कालस्वरूपी कलात्मा कालः कल्याणदः कविः || ५३ ||

संवत्सर ऋतुः पक्षो ह्ययनं दिवसो युगः |
स्वव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुलः |
अनादिनिधनः सर्वलोकपूज्यो निरामयः || ५४ ||

रासो रसज्ञः सारज्ञो लोकसारो रसात्मकः |
सर्वदुःखतिगो विद्याराशिः परमगोचरः || ५५ ||

शेषो विशेषो विगतकल्मषो रघुनायकः |
वर्णश्रेष्ठो वर्णवाह्यो वर्ण्यो वर्ण्यगुणोज्ज्वलः || ५६ ||

सर्मसाक्ष्यमरश्रेष्ठो देवदेवः सुखप्रदः |
देवाधिदेवो देवर्षिर्देवासुरनमस्कृतः || ५७ ||

सर्वदेवमयश्चक्री शार्ङ्गपाणी रघुत्तमः | 
मनो बुद्धिरहंकारः प्रकृतिः पुरुषोऽव्ययः || ५८ ||

अहल्यापावनः स्वामी पितृभक्तो वरप्रदः |
न्यायो न्यायी नयी श्रीमान् नयो नगधरो ध्रुवः || ५९ ||

लक्ष्मीविश्वम्भराभर्ता देवेन्द्रो बलिमर्दनः |
वाणारिमर्दनो यज्वानुत्तमो मुनीसेवितः || ६० ||

देवाग्रणीः शिवध्यानतत्परः परमः परः |
सामगेयः प्रियोऽक्रूरः पुनण्यकीर्तिस्सुलोचनः || ६१ ||

पुण्यः पुण्याधिकः पूर्वः पूर्णः पूरयिता रविः |
जटिलः कल्मषध्वान्तप्रभञ्जनविभावसुः || ६२ ||

अव्यक्तलक्षणोऽव्यक्तो दशास्यद्विपकेसरी |
कलानिधिः कलानाथो कमलानन्दवर्धनः || ६३ ||

जयी जितारिः सर्वादिः शमनो भवभञ्जनः |
अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः || ६४ ||

आशुः शब्दपतिः शब्दागोचरो रञ्जनो रघुः |
निश्शब्दः प्रणवो माली स्थूलः सूक्ष्मो विलक्षणः || ६५ ||

आत्मयोनिरयोनिश्च सप्तजिह्वः सकस्त्रपात् |
सनातनतमस्स्त्रग्वी पेशलो जवीनां वरः || ६६ ||

शक्तिमाञ्शङ्खभृन्नाथः गदापद्मरथाङ्गभृत् |
निरीहो निर्विकल्पश्च चिद्रुपो वितसाध्वसः || ६७ ||

शताननः सहस्त्राक्षः शतमूर्तिर्घनप्रभः |
हृत्पुण्डरीकशयनः कठिनो द्रव एव च || ६८ ||

उग्रो ग्रहपतिः श्रीमान् समर्थोऽनर्थनाशनः |
अधर्मशत्रू रक्षोघ्नः पुरुहूतः पुरुष्टुतः || ६९ ||

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः |
हिरण्यगर्भो ज्योतिष्मान् सुललाटः सुविक्रमः || ७० ||

शिवपूजारतः श्रीमान् भवानीप्रियक्रुद्वशी |
नरो नारायणः श्यामः कपर्दिनीललोहितः || ७१ ||

रुद्रः पशुपतिः स्थाणुर्विश्वामित्रो द्विजेश्वरः |
मातामहो मातरिश्वा विरीञ्चोविष्टरश्रवाः || ७२ ||

अक्षोभ्यः सर्वभूतानां चण्डः सत्यपरराक्रमः |
वालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः || ७३ ||

निदाघस्तनो,,,, मोघ श्लक्षणः परबलापहृत् |
कबन्धमथनो दिव्यः कम्बूग्रीवशिवप्रियः || ७४ ||

शङ्खोऽनिलः सुनिशपन्नः सुलभः शिशिरात्मकः |
असंसृष्टोतिथिः शूरः प्रमाथी पापनाशकृत् || ७५ ||

वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः |
रामो निलोत्पलश्यामो ज्ञानस्कन्धो महाद्युतिः || ७६ ||

पवित्रपादः पापारिर्मणिपूरो नभोगतिः |
उत्तारणो दुष्कृतिहा दुर्धर्षो दुस्सहोभयः || ७७ ||

अमृतेशोमृतवपुर्धर्मी धर्मः कृपाकरः |
भर्गो विवस्वानादित्यो योगचार्यो दिवस्पतिः || ७८ ||

उदारकीर्तिरुद्योगी वाड्मयः सदसन्मयः |
नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः || ७९ ||

चतुर्वर्गफलो वर्णी शक्तित्रयफलं निधिः |
निधानगर्भो निर्व्याजो गिरीशो व्यालमर्दनः || ८० ||

श्रीवल्लभः शिवारम्भः शान्तिर्भद्रः समञ्जसः |
भूशयो भूतिकृद्भूतिभूषणो भूतवाहनः || ८१ ||

अकायो भक्तकायस्थः कालज्ञानी महावटुः  |
परार्थवृत्तिरचलो विविक्त्तः श्रुतिसागारः || ८२ ||

स्वभावभद्रो मध्यस्थः संसारभयनाशनः |
वेद्यो वैद्यो वियद्गोप्ता सर्वामरमुनीश्वरः ||८३ ||

सुरेन्द्रः करणं कर्म कर्मकृत् कर्म्यधोक्षजः |
ध्येयो धुर्यो धराधीशः संकल्पः शर्वरीपतिः || ८४ ||

परमार्थगुरुर्वृद्धः शुचिराश्रितवत्सलः |
विष्णुर्जिष्णुर्विभुर्वन्द्यो यज्ञेशो यज्ञपालकः || ८५ ||

प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकभावनः |
केशवः केशिहा काव्यः कविः कारणकारणम् || ८६ ||

कालकर्ता कालशेषो वासुदेवः पुरुष्टुतः |
आदिकर्ता वराहश्च माधवो मधुसूदनः || ८७ ||

नारायणो नरो हंसो विष्वक्सेनो जनार्दनः |
विश्वकर्ता महायज्ञो ज्योतिष्मान् पुरुषोत्तमः || ८८ ||

वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः |
नारसिंहो महाभीमो वक्रदंष्ट्रो नखायुधः || ८९ ||

आदिदेवो जगत्कर्ता योगीशो गरुडध्वजः |
गोविन्दो गोपतिर्गोप्ता भूपतिर्भूवनेश्वरः || ९० ||

पद्मनाभो हृषीकेशो धाता दमोदरः प्रभुः |
त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः || ९१ ||

वामनो दुष्टदमनो गोविन्दो गोपवल्लभः |
भक्तप्रियोऽच्युतः सत्यः सत्यकीर्तिर्धृतिः स्मृतिः || ९२ ||

कारुण्यं करुणो व्यासः पापहा शान्तिवर्धनः |
संन्यासी शास्त्रतत्त्वज्ञो मन्दराद्रिनिकेतनः || ९३ ||

बदरीनिलयः शान्तस्तपस्वी वैद्युतप्रभः |
भूतावासो गुहावासः श्रीनिवासः श्रियःपतिः || ९४ ||

तपोवासो मुदावासः सत्यवासः सनातनः |
पुरुषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः || ९५ ||

पूर्णमूर्तिः पुराणज्ञः पुण्यदः प्रीतिवर्धनः |
शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुसली हली || ९६ ||

किरीटी कुण्डली हारी मेखली कवची ध्वजी |
योद्धा जेता महावीर्यः शत्रुजिच्छत्रुतापनः || ९७ ||

शास्ता शास्त्रकरः शास्त्रं शङ्करः शङ्करस्तुतः |
सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः || ९८ ||

पवनः संहतः शक्त्तिः सम्पूर्णाङ्गः समृद्धिमान् |
स्वर्गदः कामदः श्रीदः कीर्तिदोऽकीर्तिनाशनः || ९९ ||

मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः |
सर्वात्मा सर्वलोकेशः प्रेरकः पापनाशनः || १०० ||

सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः |
सर्गस्थित्यन्तकृद्देवः सर्वलोकसुखावहः || १०१ ||

अक्षय्यः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः |
निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः || १०२ ||

सर्वोापधिविनिरर्मुक्त्तः सत्तामात्रव्यवस्थितः |
अधिकारी विभुर्नित्यः परमात्मा सनातनः || १०३ ||

अचलो निर्मलो व्यापी नित्यमृप्तो निराश्रयः |
श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषणः || १०४ ||

आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः |
सत्यवान् गुणसम्पन्नः स्वयंतेजाः सुदीप्तिमान् || १०५ ||

कालात्मा भगवान् कालः कालचक्रप्रवर्तकः |
नारायणः परंज्योतिः परमात्मा सनातनः || १०६ ||

विश्वसृड्विश्वगोप्ता च विश्वभोक्ता च शाश्वतः |
विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः || १०७ ||

सर्वभूतसुहृच्छान्तः सर्वभूतानुकम्पनः |
सर्वेश्वरेश्वरः सर्वः श्रीमानाश्रितवत्सलः || १०८ ||

सर्वगः सर्वभूतेशः सर्वभूताशयस्थितः |
अभ्यन्तरस्थस्तमसश्छेत्ता नारायणः परः || १०९ ||

अनादिनिधनः स्त्रष्टा प्रजापतिपतिर्हरिः |
नरसिंहो हृषीकेशः सर्वात्मा सर्वदृग् वशी || ११० ||

जगतस्तस्थुषश्चैव प्रभुर्नेता सनातनः |
कर्ता धाता विधाता च सर्वेषां प्रभुरीश्वरः || १११ ||

सहस्त्रमूर्तिर्विश्वात्मा विष्णुर्विश्वदृगव्ययः |
पुराणपुरुषः स्त्रष्टा सहस्त्राक्षः सहस्त्रपात् || ११२ ||

तत्त्वं नारायणो विष्णुर्वासुदेवः सनातनः |
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः || ११३ ||

परं ज्योतिः परं धाम पराकाशः परात्परः |
अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः || ११४ ||

नित्यः सर्वगतः स्थाणुरुग्रः साक्षी प्रजापतिः |
हिरण्यगर्भः सविता लोककृल्लोकभृद्विभुः || ११५ ||

रामः श्रीमान् महाविष्णुर्जिष्णुर्देवहितावहः |
तत्त्वात्मा तारकं ब्रह्म शाश्वतः सर्वसिद्धिदः || ११६ ||

अकारवाच्यो भगवान् श्रीर्भूलीलापतिः पुमान् |
सर्वलोकेश्वरः श्रीमान् सर्वज्ञः सर्वतोमुखः || ११७ ||

स्वामी सुशीलः सुलभः सर्वज्ञः सर्वशक्तिमान् |
नित्यः सम्पूर्णकामश्च नैसर्गिकसुहृत् सुखी || ११८ ||

कृपापीयूषजलधिश्शरण्यः सर्वदेहिनाम् |
श्रीमान्नारायणः स्वामी जगतां पतिरीश्वरः || ११९ ||

श्रीशः शरण्यो भूतानां संश्रिताभीष्टदायकः |
अनन्तः श्रीपती रामो गुणभृन्निर्गुणो महान् || १२० ||

|| इति श्री आनन्दरामायणे वाल्मीकीये श्री रामसहस्त्रनामस्तोत्रं सम्पूर्णम् ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post