नारायण कृत तुलसी माहात्म्य | Tulasi Stotram |

 

नारायण कृत तुलसी माहात्म्य 

नारायण कृत तुलसी माहात्म्य 


नारायण उवाच 
अन्तर्हितायां तस्यां च गत्वा च तुलसीवनम् | 
हरिः सम्पूज्य तुष्टाव तुलसीं विरहातुरः || 

श्री भगवानुवाच 
वृन्दरूपाश्च वृक्षाश्च यदैकत्र भवन्ति च | 
विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजाम्यहम् || 
पुरा बभूव या देवी त्वादौ वृन्दावने वने | 
तेन वृन्दावनी ख्याता सौभाग्याँ तां भजाम्यहम् || 
असंख्येषु च विश्वेषु पूजिता या निरन्तरम् |
तेन विश्वपूजिताख्यां जगत्पूज्यां भजाम्यहम् || 
असंख्यानि च विश्वानि पवित्राणि यया सदा | 
तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् || 
देवा न तुष्टाः पुष्पाणां समूहेन यया विना | 
तां पुष्पसारां शुद्धां च दृष्टुमिच्छामि शोकतः || 
विश्वे यत्प्राप्तिमात्रेण भक्तानंदो भवेद् ध्रुवम् |
नंदिनी तेन विख्याता सा प्रीता भवताद्धि में || 
यस्या देव्यास्तुता नास्ति विश्वेषु निखिलेषु च | 
तुलसी तेन विख्याता तां यामि शरणं प्रियाम् ||
कृष्णजीवनरुपा च शश्वतप्रियतमा सती | 
तेन कृष्णजीवनीति मम रक्षतु जीवनम् || 

|| प्रकृतिखण्डे नारायणकृत तुलसी स्तोत्र सम्पूर्ण ||   
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post